Friday, July 23, 2010

आत्मशम्भुस्तुतिः

" सत्यं महाभेषजमिति पंडीचेर्या: श्रीमाता स्मारितवती / सर्वं सत्ये समाहितमिति सनातनी नीतिः / तदभावे'सत्यप्रपंचः / तेन
त्रिविधदु:समुद्भव: / संसारस्य एव रोगः / चिति सत्यप्रतिष्ठायां सुखस्वरूपा सम्विदुदेति / तेन मरणान्तसर्वदु:प्रहाणं
दिव्यजीवनाधिगमश्च / "
--पथिकः

Thursday, July 22, 2010

हेतुं न विद्मो वयम !

" हस्ते मर्ककस्य वृक्षशिरसि स्रोतःसु वा कर्कट-
ग्रावग्राहिकरेषु वाश्वतरपादेष्वागतो'सौ शिला /
विष्णोर्दुर्गतिमेति यत्तदिह किं हेतुर्न विद्मो वयं
कर्कंधूप्रियभिल्लबालवनिता मुक्तां पदा लोठति //"
-- पथिकः

Monday, July 12, 2010

प्रसिद्ध आंग्लकविः मार्क ट्वेन मारीशसमक्षिलक्षीकृत्य यदुदीरितवान तस्यात्र संस्कृतरूपं प्रस्तूयते:

" स्वर्गं ससर्ज भगवान्वत तद्विधातुं
चादावरीरचदसौ किल बिम्बमेकम /
तच्चामरे इति देशविशेष एष-
स्ट्रै()विष्टपं पुरमभूत्प्रतिबिम्बमस्य //"

-
सु मो मिश्र: