Saturday, March 19, 2011

सरस्वती !

//श्री://

सा'न्तर्निलीपरिलीनपवित्रमूर्तिः
सारस्वती मनुभिराहितदिव्यभूतिः /
स्वान्तर्बहिः स्फुरति सन्तमन्तराख्ये
खे सन्मखे किमु मे'न्यनिषेवितेन //


-पान्थः

Monday, March 14, 2011

Saturday, March 5, 2011

राजसूययागः पुण्यपत्तने !

"श्रुतं मया पुण्यभूमौ राजसूयो यागः संपद्यते अद्यारभ्य मार्चमासस्य नवमदिनांकपर्यन्तं,तदतीव मोदाय संतोषा / दूरावतीर्णा'पि पिपासतीव श्रुतिर्मदीया श्रुतिशर्मराशिम !/
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः // ....."

Friday, March 4, 2011

संस्कृतं सम्स्कृतेनैव !

" संस्कृतं संस्कृतेनैव परीक्षस्व पाठय /
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"