अयि नवीन
वर्ष ! वर्ष सुजलं
पर्जन्य इव !
सदा स्मारय
सुकृत-कुकृतानि
चेतनाम्बेव !
सा दामिनी हा
क्व गता निर्भयाख्या
प्रतिभयान्तः !
भरतात्माsद्य
रोदिति चत्वरेषु
रहो लुठति !
कलेरवधिः
समाप्नुयादत्र वा
प्रसरीसर्ति !