Sunday, August 28, 2016

manurapyaaha !

//श्रीः//

मनुरप्याह -

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः /
तस्य शास्त्रेSधिकारोSस्ति ज्ञेयो नान्यस्य कस्यचित् //

योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् /
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः //

ततो ध्येयमिदम् -

समाजस्य समुद्धारो न बुद्ध्या न च तर्कतः /
विज्ञानशिल्पतो नापि स तु वेदनिषेवणात् //
वेदो हि पूर्वजः सर्वधर्माणामेव नो भुवि /
सर्वेषां मूलमैक्यं स मातेव बोधयिष्यति //
वैदिकं जीवनं वस्तु सामरस्यसुखोदयम् /
सर्वेषु मित्रचक्षुर्नो विश्वमैत्रीं समाहरेत् //
ॐ नमो ब्रह्मणे कृत्वा स्वार्पणं यद् दिने दिने /
सन्ध्याकाले कथं भूयात् कामक्रोधादिर्दुर्ग्रहः ? //
बहुज्ञानेन को लाभो मस्तिष्कस्यैव भारदम् /
ज्ञात्वा'ल्पमपि कर्तव्यं कर्ता पण्डित उच्यते //

सु मो मिश्रः / 

vedavidyaalayaH !

ॐ 

प्रतिग्रामं पञ्चके वा ग्रामाणां यज्ञमण्डपः /
वेदविद्यालयोपेतः स्याद्वै श्रोत्रियमण्डितः //

सन्ध्यास्वाध्यायसंस्काराः संस्कृतञ्च दिने दिने /
शिक्षेरन् तत्र जनता आबालवृद्धसज्जनाः  //

शिखा सूत्रं शिखी शाखा चतुष्कं न हि यस्य भोः /
कुत्रत्यं तस्य विप्रत्वं जातिब्राह्मण एव सः    //

ब्राह्मणैरुद्धृतं राष्ट्रं न्यक्कृतं ब्राह्मणेन किम् /
तस्मिन्नुन्नीयमाने स्याद्राष्ट्रवैभवसौरभम्  //

विद्यायोनितपोगुप्तो ब्राह्मणो जयति क्षितिम् /
योनिमात्रेण  भोवादी  यथा  बुद्धेन  भाषितम्   //

सु मो मिश्रः /

  

braahmaNasya tu lakshaNam

ॐ 

सन्ध्यास्वाध्यायसंस्काराः संस्कृतं च चतुष्टयम् /
दिने  दिने  प्रकुर्वाणो  द्विजन्मा  केन  जीयते    // 

द्विजत्वं सर्वसुलभं तपः कष्टं परं नृणाम् /
वेदज्ञा बहुधा लोके पञ्चषा विरला द्विजाः //

रोप्यन्ते पादपा दिक्षु दीक्षितो ब्राह्मणो वटुः /
स वटः पादपः केन रोप्यते ब्रह्मसत्फलः //

सन्ध्ययात्मानमभ्येति स्वाध्यायेनाखिलं जगत् /
संस्कारैः संस्कृततनुः संस्कृतेनार्यतां व्रजेत्   //

सु मो मिश्रः /

shriNuyaama vadema paThema bhoH !

ॐ 
शृणुयाम वदेम पठेम भोः 
विदधीम लिखेम च भारतीम् /
जगती भवतीह समर्चिता 
श्रुतिगिरा गुरुभारतगौरवम् // 

सु मो मिश्रः 

Tuesday, August 2, 2016

vicaarayema !

" वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः /
  अनर्थकं व्याकरणम् " इत्यत्र सत्यमस्ति वा  ??  //
नाधीत्य वेदान्न च लोकवृत्त्या
                           शिष्टप्रयोगान् ननु शिक्षमाणः  /
तन्त्रं प्रधानं कुरुते मनस्वी 
                           किं तेन वाक् सिध्यति सूत्रवृत्त्या ? //
 यथोपवीतसूत्रेण तन्मात्रेण न वै द्विजः /
 तथा प्रयोगविधुरः सूत्रज्ञो याति हास्यताम् //

paaniniiyaah subodhema !

पाणिनीयमहातन्त्रं पथ्यं संस्कृतसेविनाम् /
पाणिन्यत्यन्ततन्त्रत्वं चिन्त्यं संस्कृतभूतये //

Friday, December 4, 2015

तीर्थीकुर्वन्ति तीर्थानि सद्गुरोः पादपांसवः   /
शास्त्रीकुर्वन्ति शास्त्राणि तदीयास्याब्जरेणवः //
गुरुहीनं तु  किं तीर्थं नदीसिन्धुसरोवराः /
गुरुहीनं तु किं शास्त्रं ग्रन्थोद्ग्रन्थश्रमोदयः //

Thursday, December 3, 2015

KALIPANDITAAH !

असंस्कृतपदन्यासा  अशास्त्रकृतषण्मुखाः   /
अनाचारवशारम्भाः पण्डिताः कलिमण्डनाः //

Wednesday, December 2, 2015

VAARAYAAMAASA TAAN GHANAAN !

                               //श्रीः//
ॐ  धृते गोवर्धने शैले परित्राणाय गोकुळे  /अस्माभिर्वलिभिर्जुष्टो वारयामास तान् घनान्  //         // स्वाहा ! //

Tuesday, December 1, 2015

raashtrabhaashaa !

हंहो सा राष्ट्रभाषेति कस्य चित्ते न निश्चयः /
विदुषोSविदुषो वापि देशिनो वा विदेशिनः !   //
संस्कृतं राष्ट्रभाषेति विश्वे ते गुरवो वयं   /
के वयं विश्वपटले विना संस्कृतसंस्कृतिम् ? //

Wednesday, November 25, 2015

VIDVAAMSO 'PI SUVIDVAAMSAH.........!

संस्कृतोन्नयनी वाणी व्यक्ता, ज्ञाता न केवलम्  /
विद्वांसोSपि सुविद्वांसो नाशयन्ति शतं समाः ! //
अ. शतायुर्वै पुरुषः !

KAUMAARASAMBHAVADINE..........!

कौमारसम्भवदिने कविकालिदासः 
स्मर्येत नूनमिह काव्यरसोत्सवैस्तैः /
स्मर्येत सा वसुमती गिरिजा गिरीशं 
स्वीकर्तुमास तपसा कथमम्बुजाक्षी // 1//
स्वर्गञ्च मर्त्यमिह गर्वमदोद्धतोSसौ 
खर्वीचकार वत तारकदैत्यराजः  /
तं सर्ववंशसहितं सबलं निहन्तुं 
दाक्षी कुमारजननीत्वमलञ्चकार // 2//
तस्यै नमः सकलराक्षसनाशनायै 
तस्यै नमः सदवतारपरांबिकायै  //
तस्यै नमः सकलराज्यश्रिये श्रुतायै 
तस्यै नमः परमवैभवराष्ट्रगोप्त्र्यै // 3//
षाण्मातुराय वरदाय  



Tuesday, November 24, 2015

GIITAA SUGIITAA KARTAVYAA ! - S'ankarah

यदा  गीता  तदा  त्यागः  प्रजासु   च  सुराजसु /
गीताजयन्त्यतोअ हन्त कालशक्तिधनव्ययः ! // 
अ. अतः = तद्भिन्नहेतुना पर्वतया  पालिता सतीति भावः /

गीताव्यक्तिः कदा स्यान्नः समष्टिर्गीतया पुनः /
कदा समाजं  राष्ट्रञ्च  विश्वं  गीता  प्रचोदयात् //

गीता  गङ्गा  च  गायत्री  त्रयमेतत्सनातनम् /
उद्धृता उद्धरन्त्येताः बुध्य भारत बुध्य भोः ! //

सर्वाणि संविधानानि  भेदकृन्ति  पदे  पदे /
गीतैका संविधानं नः परस्यआ  च नरस्य च    //
आ. परस्य = परमात्मनः / गीता मे परमं रूपं गीता मे परमं पदम् / गीताज्ञानमुपाश्रित्य त्रीन्लोकान्पालयाम्यहमिति पाद्मोक्तेः /

palaayase mitra katham kva gantaa !

पलायसे मित्र कथं क्व गन्ता 
गेहं स्वदेशं स्वजनञ्च हित्वा    /
येनासि गन्ता वत सुज्ञ तेन 
किं ते न साक्षाद् भविता परत्र ? //
प्रेम्णा जनास्त्वां जयिनं जनन्या:
पुत्रं कलाकान्तमथो श्रयन्ते      /
जयन्त्यजस्रं सुखसारपद्माः 
सद्मस्वनन्तेषु विमृश्य चित्रम् //

Tuesday, January 1, 2013

navavarshamangalam !

अयि नवीन 
वर्ष ! वर्ष सुजलं 
पर्जन्य इव !

सदा  स्मारय 
सुकृत-कुकृतानि 
चेतनाम्बेव  !

सा दामिनी हा
क्व गता निर्भयाख्या 
प्रतिभयान्तः !

भरतात्माsद्य 
रोदिति चत्वरेषु 
रहो लुठति !

कलेरवधिः 
समाप्नुयादत्र वा 
प्रसरीसर्ति  !

Saturday, August 25, 2012

samskritasaptAhaH

अयि संस्कृतसप्ताह ! सप्ताहोभिर्महो हर /
संस्कृतेर्विश्वनीडं तत्त्वखिलं संस्कृतं कृथाः //

Wednesday, July 4, 2012

               परिचयः 


    ईश्वरो गुरुरात्मेति शरीरादिजगत्यपि /
स्वरूपप्रथनं यस्य स स्वात्मा मे शिवो हरिः // 

Tuesday, June 26, 2012

भरतेषु  राष्ट्रम, !

शंसामि शस्त्रेण क्वचिच्छिनद्मि 
शास्त्रेण शास्मीह च खण्डयामि /
आर्यस्य भूषे वत शस्त्रशास्त्रे 
याभ्यां विशिष्टम, भरतेषु राष्ट्रम, //
वि(द्युत,) (ई)-पत्राणि कथंकारं ?

व्यर्थपत्राणि मौनेन 
             ज्ञानपत्राणि बोधतः /
अनिष्टान्यप्यदृश्यानि 
              वि-पत्रेष्विष्टमुत्तरेत, //

Friday, April 13, 2012

" एष विचार: अद्य दृष्टिपथमागत इति निवेदयामि / कदाचिदधुना भारतसर्वकारः चिन्तयति यदि संस्कृतं कोट्या जनै:भाष्यमाणं लभ्येत तर्हि सा संविधाने पूर्ववत्तिष्ठेदिति , अन्यथा मृतभाषात्वे घोष्येत इति / अत्र वक्तव्यं यत्प्रतिदिनम
त्रिकोटि: छात्राः संस्कृतं पठन्ति इति संस्कृतभारत्या आकलनमस्ति,परं तत्र पाठन -परीक्षयो: माध्यमः प्रायःअसंस्कृत एव / पुस्तकानि अपि असंस्कृतमयानि / आन्ग्लादीनां वैदेशिकभाषाणाम स्थिते: सर्वथा विपरीतमेतत / तेन अन्यभाषा वर्धन्ते , संस्कृतं च वाध्यते / संस्कृताध्यापका: किन्चिदात्ममंथनं

कृत्वा स्वगुणदोषान पश्यन्तु / यथेच्छन्ति तथा कुर्वन्तु !! "