" मध्ये पूर्निमयांग सप्तसुदिनान्येतानि भो: श्रावणे
भाद्रे किंचन यत्र वैदिकतरु: संसेव्यते शर्मणे /
गैर्वाणी स्फुरतीह दिव्यमहिमा वाणी व मंदाकिनी
राष्ट्रं विश्वमिदं च पावितवती श्रेयो'खिलं कुर्वती //
सप्ताहः स यथा श्रिये सुरगिरो विश्वे भवेद्व्यापकः
शास्त्रं संस्कृतिमर्म शर्मसरणिमालोक्य लोकः कृती /
भाषाजातिप्रभेदविस्मृतिधिया सत्यम सनत्नम सरन
आकूतिम कुरुतात्स सत्यशरणे दिव्यं चरन्जीवनम //"
# पथिकः#
Thursday, August 5, 2010
Friday, July 23, 2010
आत्मशम्भुस्तुतिः
" सत्यं महाभेषजमिति पंडीचेर्या: श्रीमाता स्मारितवती / सर्वं सत्ये समाहितमिति सनातनी नीतिः / तदभावे'सत्यप्रपंचः / तेन
त्रिविधदु:खसमुद्भव: / संसारस्य स एव रोगः / चिति सत्यप्रतिष्ठायां सुखस्वरूपा सम्विदुदेति / तेन मरणान्तसर्वदु:खप्रहाणं
दिव्यजीवनाधिगमश्च / "
--पथिकः
त्रिविधदु:खसमुद्भव: / संसारस्य स एव रोगः / चिति सत्यप्रतिष्ठायां सुखस्वरूपा सम्विदुदेति / तेन मरणान्तसर्वदु:खप्रहाणं
दिव्यजीवनाधिगमश्च / "
--पथिकः
Thursday, July 22, 2010
हेतुं न विद्मो वयम !
" हस्ते मर्कटकस्य वृक्षशिरसि स्रोतःसु वा कर्कट-
ग्रावग्राहिकरेषु वाश्वतरपादेष्वागतो'सौ शिला /
विष्णोर्दुर्गतिमेति यत्तदिह किं हेतुर्न विद्मो वयं
कर्कंधूप्रियभिल्लबालवनिता मुक्तां पदा लोठति //"
-- पथिकः
ग्रावग्राहिकरेषु वाश्वतरपादेष्वागतो'सौ शिला /
विष्णोर्दुर्गतिमेति यत्तदिह किं हेतुर्न विद्मो वयं
कर्कंधूप्रियभिल्लबालवनिता मुक्तां पदा लोठति //"
-- पथिकः
Monday, July 12, 2010
Monday, June 7, 2010
वार्णिकं कुरुक्षेत्रं भारतं वा वृत्तं
ॐ
नवकल्पितमिदं वृत्तं सावधानं पश्यन्तु सुधियः --
नवकल्पितमिदं वृत्तं सावधानं पश्यन्तु सुधियः --
नाम -
कुरुक्षेत्रं भारतं वा वार्णिकं छन्दः /
कुरुक्षेत्रं भारतं वा वार्णिकं छन्दः /
लक्षणं --
कुरुक्षेत्रं त्विन्द्रियेशमूर्त्या(१०,०८) यातामामामाययोग्यम /
उदाहरणं --
कुरुक्षेत्रं त्विन्द्रियेशमूर्त्या(१०,०८) यातामामामाययोग्यम /
उदाहरणं --
कुरुक्षेत्रे भीमभीमं युद्धं , दर्शं दर्शं पाण्डवानाम
सुरेशं तम भैरवेशं स्थाणुम , श्रीकंठेशं लोकयन्त: /
प्रजाः शान्तिं प्रार्थयन्तो धर्मं , पातं त्वन्ते कौरवानाम
असौ शश्वज्जिष्णु सत्यं धत्ते , योगक्षेमं मानवानाम //
सुरेशं तम भैरवेशं स्थाणुम , श्रीकंठेशं लोकयन्त: /
प्रजाः शान्तिं प्रार्थयन्तो धर्मं , पातं त्वन्ते कौरवानाम
असौ शश्वज्जिष्णु सत्यं धत्ते , योगक्षेमं मानवानाम //
Sunday, May 30, 2010
लोकतन्त्रं कथं सुखम !
" न वा उ देवाः क्षुदमिद्वधं ददु: उताशितमुपगच्छन्ति मृत्यवः /
उतो रयिं पृनतो नोपदस्यति उतापृनन मर्डितारम न विन्दते //"
* ऋग्वेद:
उतो रयिं पृनतो नोपदस्यति उतापृनन मर्डितारम न विन्दते //"
* ऋग्वेद:
Saturday, May 22, 2010
कुरुक्षेत्रवृत्तं भारतवृत्तं वा
किमप्युत्प्रेक्षितं मया नवीनं छन्दो विलोकयन्तु : नाम कुरुक्षेत्रं भारतं वा ।
लक्षणं :
यस्याश्चतुरषु पादेष्वष्टादश, मात्राः सर्वत्र सौम्याः सुललिता: /
तद्वृत्तम कुरुक्षेत्रमिति विज्ना, भारतमिति वापि दिशन्तः सुखिताः //
उदाहरणं :
एक एवासि विश्वेश स्वात्मन ! कुरुक्षेत्रे'न्यः कस्त्वामृते मे /
स्थाणुभैरव ! भावितो'हं सपदि,श्रीकृष्णो मे देशिकः सनत्न: //ॐ

Subscribe to:
Posts (Atom)