Tuesday, January 1, 2013

navavarshamangalam !

अयि नवीन 
वर्ष ! वर्ष सुजलं 
पर्जन्य इव !

सदा  स्मारय 
सुकृत-कुकृतानि 
चेतनाम्बेव  !

सा दामिनी हा
क्व गता निर्भयाख्या 
प्रतिभयान्तः !

भरतात्माsद्य 
रोदिति चत्वरेषु 
रहो लुठति !

कलेरवधिः 
समाप्नुयादत्र वा 
प्रसरीसर्ति  !

Saturday, August 25, 2012

samskritasaptAhaH

अयि संस्कृतसप्ताह ! सप्ताहोभिर्महो हर /
संस्कृतेर्विश्वनीडं तत्त्वखिलं संस्कृतं कृथाः //

Wednesday, July 4, 2012

               परिचयः 


    ईश्वरो गुरुरात्मेति शरीरादिजगत्यपि /
स्वरूपप्रथनं यस्य स स्वात्मा मे शिवो हरिः // 

Tuesday, June 26, 2012

भरतेषु  राष्ट्रम, !

शंसामि शस्त्रेण क्वचिच्छिनद्मि 
शास्त्रेण शास्मीह च खण्डयामि /
आर्यस्य भूषे वत शस्त्रशास्त्रे 
याभ्यां विशिष्टम, भरतेषु राष्ट्रम, //
वि(द्युत,) (ई)-पत्राणि कथंकारं ?

व्यर्थपत्राणि मौनेन 
             ज्ञानपत्राणि बोधतः /
अनिष्टान्यप्यदृश्यानि 
              वि-पत्रेष्विष्टमुत्तरेत, //

Friday, April 13, 2012

" एष विचार: अद्य दृष्टिपथमागत इति निवेदयामि / कदाचिदधुना भारतसर्वकारः चिन्तयति यदि संस्कृतं कोट्या जनै:भाष्यमाणं लभ्येत तर्हि सा संविधाने पूर्ववत्तिष्ठेदिति , अन्यथा मृतभाषात्वे घोष्येत इति / अत्र वक्तव्यं यत्प्रतिदिनम
त्रिकोटि: छात्राः संस्कृतं पठन्ति इति संस्कृतभारत्या आकलनमस्ति,परं तत्र पाठन -परीक्षयो: माध्यमः प्रायःअसंस्कृत एव / पुस्तकानि अपि असंस्कृतमयानि / आन्ग्लादीनां वैदेशिकभाषाणाम स्थिते: सर्वथा विपरीतमेतत / तेन अन्यभाषा वर्धन्ते , संस्कृतं च वाध्यते / संस्कृताध्यापका: किन्चिदात्ममंथनं

कृत्वा स्वगुणदोषान पश्यन्तु / यथेच्छन्ति तथा कुर्वन्तु !! "

Friday, March 9, 2012

Haa Hanta SamskRitaM kutra !

" mlecchanto mlecchayanto 'mRita-vacana-jharIM shoSayantaH sthaviSThAH
tathyaM tattvaM padArthaM parama-sukRitiSu prApayanto manISAm /
dhanyA dhIrA vadAtA vaTu-viTapa-mahAraNya-nirvANa-niSThA
nirvANaM saMskRitasyA py atha dadhati shanair durnivAraH svabhAvaH //"