Tuesday, November 24, 2015

palaayase mitra katham kva gantaa !

पलायसे मित्र कथं क्व गन्ता 
गेहं स्वदेशं स्वजनञ्च हित्वा    /
येनासि गन्ता वत सुज्ञ तेन 
किं ते न साक्षाद् भविता परत्र ? //
प्रेम्णा जनास्त्वां जयिनं जनन्या:
पुत्रं कलाकान्तमथो श्रयन्ते      /
जयन्त्यजस्रं सुखसारपद्माः 
सद्मस्वनन्तेषु विमृश्य चित्रम् //

No comments:

Post a Comment