Sunday, August 28, 2016

braahmaNasya tu lakshaNam

ॐ 

सन्ध्यास्वाध्यायसंस्काराः संस्कृतं च चतुष्टयम् /
दिने  दिने  प्रकुर्वाणो  द्विजन्मा  केन  जीयते    // 

द्विजत्वं सर्वसुलभं तपः कष्टं परं नृणाम् /
वेदज्ञा बहुधा लोके पञ्चषा विरला द्विजाः //

रोप्यन्ते पादपा दिक्षु दीक्षितो ब्राह्मणो वटुः /
स वटः पादपः केन रोप्यते ब्रह्मसत्फलः //

सन्ध्ययात्मानमभ्येति स्वाध्यायेनाखिलं जगत् /
संस्कारैः संस्कृततनुः संस्कृतेनार्यतां व्रजेत्   //

सु मो मिश्रः /

No comments:

Post a Comment