" वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः /
अनर्थकं व्याकरणम् " इत्यत्र सत्यमस्ति वा ?? //
नाधीत्य वेदान्न च लोकवृत्त्या
शिष्टप्रयोगान् ननु शिक्षमाणः /
तन्त्रं प्रधानं कुरुते मनस्वी
किं तेन वाक् सिध्यति सूत्रवृत्त्या ? //
यथोपवीतसूत्रेण तन्मात्रेण न वै द्विजः /
तथा प्रयोगविधुरः सूत्रज्ञो याति हास्यताम् //
No comments:
Post a Comment