Sunday, August 28, 2016

vedavidyaalayaH !

ॐ 

प्रतिग्रामं पञ्चके वा ग्रामाणां यज्ञमण्डपः /
वेदविद्यालयोपेतः स्याद्वै श्रोत्रियमण्डितः //

सन्ध्यास्वाध्यायसंस्काराः संस्कृतञ्च दिने दिने /
शिक्षेरन् तत्र जनता आबालवृद्धसज्जनाः  //

शिखा सूत्रं शिखी शाखा चतुष्कं न हि यस्य भोः /
कुत्रत्यं तस्य विप्रत्वं जातिब्राह्मण एव सः    //

ब्राह्मणैरुद्धृतं राष्ट्रं न्यक्कृतं ब्राह्मणेन किम् /
तस्मिन्नुन्नीयमाने स्याद्राष्ट्रवैभवसौरभम्  //

विद्यायोनितपोगुप्तो ब्राह्मणो जयति क्षितिम् /
योनिमात्रेण  भोवादी  यथा  बुद्धेन  भाषितम्   //

सु मो मिश्रः /

  

No comments:

Post a Comment