" आपदामापतंतीनां हितो 'प्यायाति हेतुताम /
मातृजंघा हि वत्सस्य स्तंभीभवति बंधने //"
किमेषः श्लोकः संस्कृताध्यापकं यथार्थं लक्षयति यः खलु असंस्कृतमाध्यमेन पाठयति परीक्षते च ?
-- पथिकः
Saturday, April 9, 2011
Saturday, March 19, 2011
सरस्वती !
//श्री://
सा'न्तर्निलीनपरिलीनपवित्रमूर्तिः
सारस्वती मनुभिराहितदिव्यभूतिः /
स्वान्तर्बहिः स्फुरति सन्ततमन्तराख्ये
खे सन्मखे किमुत मे'न्यनिषेवितेन //
-पान्थः
सा'न्तर्निलीनपरिलीनपवित्रमूर्तिः
सारस्वती मनुभिराहितदिव्यभूतिः /
स्वान्तर्बहिः स्फुरति सन्ततमन्तराख्ये
खे सन्मखे किमुत मे'न्यनिषेवितेन //
-पान्थः
Monday, March 14, 2011
Saturday, March 5, 2011
राजसूययागः पुण्यपत्तने !
"श्रुतं मया पुण्यभूमौ स राजसूयो यागः संपद्यते अद्यारभ्य मार्चमासस्य नवमदिनांकपर्यन्तं,तदतीव मोदाय संतोषाय च / दूरावतीर्णा'पि पिपासतीव श्रुतिर्मदीया श्रुतिशर्मराशिम !/
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः //ॐ ....."
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः //ॐ ....."
Friday, March 4, 2011
संस्कृतं सम्स्कृतेनैव !
" संस्कृतं संस्कृतेनैव परीक्षस्व च पाठय /
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"
Thursday, February 17, 2011
मातृभाषा संस्कृतं !
" विश्वे सर्वेषु प्रान्तेषु भारते संस्कृतं पुनः /
मातृभाषा बहूनां स्याज्जायेरन येन देवताः //"
मातृभाषा बहूनां स्याज्जायेरन येन देवताः //"
Wednesday, February 16, 2011
संस्कृतस्य जर्मन विकल्प: !
" केंद्रसर्वकारस्य शिक्षानीतौ संस्कृत-विकल्पतया जर्मन-भाषा भवतीति श्रुतम /अद्भुतो'पूर्वश्च यत्नः !
के ते भारत-राष्ट्रस्य शिक्षानीतौ नियामाका: /
अनुबंधाश्च चत्वारस्तेषाम ज्नेया बुधोत्तमै: //
के ते भारत-राष्ट्रस्य शिक्षानीतौ नियामाका: /
अनुबंधाश्च चत्वारस्तेषाम ज्नेया बुधोत्तमै: //
Subscribe to:
Posts (Atom)